________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
* सटीक
अथ यत्पूर्वमुक्तं शंकाकांक्षादिदूषणं स्यात्, तत्सर्वं पृथक् दृष्टांतेन दृढयति
॥ मूलम् ॥-आलओ थीजणाइन्नो। थीकहा य मणोरमा ॥ संथवो चेव नारीणं । तासिं इं. दियदसणं ॥ १२ ॥ कूइयं रुइयं गीयं । हसियं भुत्तासणाणि य॥पणीयं भत्तपाणं च । अइमायं पाणभोयणं ॥ १३॥ गत्तभूसणमिट्टं च । कामभोगा य दुजया ॥ नरस्सत्तगवेसस्त । विसं तालउडं जहा ॥ १४ ॥ व्याख्या-तिमृभिर्गाथाभिः पूर्वाण्येव ब्रह्मचर्यसमाधिभंगकारणान्याह-आत्मगवेषकस्य नरस्य स्त्रोजनस्य चैतत्सर्व ब्रह्मचर्यघातकरं त्याज्यमित्यर्थः. आत्मानं ब्रह्मचर्यजीवितं गवेषयतीत्यात्मगवेषकस्तस्य वल्लभब्रह्मचर्यस्य, किमिव? तालपुटं विषमिव, यथा शब्द इवार्थे, यथा तालपुटं विषं तालुकस्पर्शनमात्रादेव त्वरितं जीवितं हंति, तथैतदपि त्वरितं ब्रह्मचर्यजीवितमपहरतीत्यर्थः, तत्किं किमित्याह-स्त्रीजनाकीर्ण आलयो गृहमुपाश्रयः १, पुनर्मनोरमा मनोहरा स्त्रीकथा २, च पुनर्नारीणां संस्तवः, स्त्रीभिः सहकासने उपविशनं परिचयकरणं ३, पुनस्तासां स्त्रोणां रागेणेंद्रियाणां नयनवदनस्तनादीनां दर्शनं ४, पुनः स्त्रीणां कूजितं, तथा रुदितं, पुनीतं, तथा ह
॥५५६॥
For Private And Personal Use Only