________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5245
सटीक
ॐॐॐॐॐॐॐ
युक्तः, न त्वेकाको तिष्टति. पुनः कीदृशः? दांत इंद्रियाणां जेता कषायजेता च. ॥ १५॥
॥ मूलम् ॥-देवदाणवगंधवा । जक्खरक्खसकिन्नरा ॥ बंभयारिं नमसति । दुकरं जे करिति तं ॥ १६ ॥ व्याख्या-अथ ब्रह्मचर्यधरणात्फलमाह-देवा विमानवासिनो ज्योतिष्काश्च. दानवा भवनपतयः, गंधर्वा देवगायनाः, यक्षा वृक्षवासिनः सुराः, राक्षसा मांसास्वादतत्पराः, किन्नरा व्यंतरजातयः, एते सर्वेऽपि तं ब्रह्मचारिणं नमस्कुर्वति. तं कं? यो ब्रह्मचारी पुरुषः स्त्रीजनो वा दुष्करं | कर्तुमशक्यं धर्म करोतीति शीलधर्म पालयति. ॥ १६ ॥ ४ ॥मूलम् ॥-एस धम्मे धुवे णित्ते । सासए जिणदेसिए ॥ सिद्धा सिझंति चाणेणं । सि
झिस्संति तहावरेत्तिबेमि ॥ १७ ॥ व्याख्या-एष धर्मोऽस्मिन्नध्ययने उक्तो ब्रह्मचर्यलक्षणो ध्रुवोऽस्ति, परतीर्थिभिरनिषेध्योऽस्ति. तस्मात्प्रमाणप्रतिष्ठितः. पुनर्नित्यस्त्रिकालेऽप्यविनश्वरः, अत एव शाश्वतस्त्रिकाले फलदायकत्वात्. पुनर्जिनैस्तीर्थकरैदेशितः प्रकाशितः, इति विशेषणैरस्य शीलधर्मस्य प्रामाण्यं प्रकाशितं. अनेन शीलधर्मेण बहवो जीवाः सिद्धा अतीतकाले सिद्धि प्राप्ताः. च पुन
DECCACCOAC+
५५८॥
For Private And Personal Use Only