________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥५५४॥
ॐॐॐ
॥ मूलम् ॥-हासं कीडरयं दप्पं । सहसा वित्तासियाणि य ॥ (सहभुत्तासणाणि य-इति | वा पाठः) बंभचेररओ थीणं । नाणुचिंते कयाइवि ॥७॥व्याख्या-ब्रह्मचर्यरतो ब्रह्मचारी स्त्रीणां हास्यं, पुनः क्रीडां, तथा रतं मैथुनप्रीति, दर्प स्त्रीणां मानमर्दनादुत्पन्नं गवं, पुनः सहसा वित्रासितानि सहसात्कारेणागत्य पश्चात्पराङ्मुखस्थितानां स्त्रीणां नेत्रे हस्ताभ्यां निरुध्य भयोत्पादनहास्योत्पादनानि सहसा वित्रासितान्युच्यते. एतानि पूर्वानुभूतानि कदापि नानुचिंतयेन्न स्मरेत्. अथ च सहभुक्तासनानि नानुचिंतयेत्. सह इति स्त्रिया साधं भुक्तं, एकासने उपविशनपूर्व भोजनानि कृतान्यपि न स्मरेत्. सहासनभुक्तानीति वक्तव्ये सहभुक्तासनानीति प्राकृतत्वात् ॥ ७॥
॥ मूलम् ॥-पणियं भत्तपाणं तु । खिप्पं मयविवढ्ढणं ॥ बंभचेररओ भिक्खू । निच्चसो परिवजए ॥८॥ व्याख्या-ब्रह्मचर्यरतो भिक्षुः प्रणीतं क्षरघृतादिरसं भक्तमाहारं, तथा पानं द्राक्षाखजूरशर्करादिमिश्रितं पानीयं नित्यशः परिवर्जयेत्, सर्वदा परित्यजेत्, सदा सेवनानाय स्यात्. तथा मरतो भिक्षुर्यदाहारं पानीयं च क्षिप्रं शीघ्रं मदविवर्धनं कामोद्दीपकं भवति, तदपि नित्यं परिवर्जयेत्.
CACAAAAAAAAA
॥५५४॥
For Private And Personal Use Only