________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyarmandie
उत्तरा
सटीक
॥५५३॥
4455ॐ
कासने स्थित्वा परिचयं, च पुनरभीक्ष्णं वारंवारं संकथां स्त्रीजातिभिः सह स्थित्वा बह्रीं वार्ता परिवर्जयेत्, सर्वथा त्यजेत्. ॥३॥
॥ मूलम् ॥-अंगपञ्चंगसंठाणं । चारुल्लवियपेहियं ॥ बंभचेररओ थीणं । चक्खुगिज्झं विवजए॥४॥ व्याख्या-ब्रह्मचर्यरतो साधुः स्त्रीणामंगप्रत्यंगसंस्थानं चक्षुर्याचं विवर्जयेत. अंगं मुखं, प्रत्यंगं स्तनजघननाभिकक्षादिकं, संस्थानकं कटीविषये हस्तं दत्वोवस्थायित्वं. पुनः स्त्रीणां चारूल्लपितप्रेक्षितं चक्षुह्यं विशेषेण वर्जयेत्. चारु मनोहरं यदुल्लपितं मन्मनादिजल्पितं, प्रकृष्टमीक्षितं वक्रावलोकनमेतत्सर्वं परित्यजेत. कोऽर्थः? ब्रह्मचारी हि स्त्रीणामंगप्रत्यंगं संस्थानं चारुभणितं कटाक्षैरवलोकनमेतत्सर्व दृष्टिविषयमागतमपि, ततः स्वकीयं चक्षुरिंद्रियं बलान्निवारयेदित्यर्थः ॥४॥
॥मूलम् ॥-कूइयं रुइयं गीयं । हसियं थणियकंदियं ॥ बंभचेररओ थीणं । सोयगिज्झं विवजए ॥ ५॥ व्याख्या-ब्रह्मचर्यरतः स्त्रीणां कूजितं, रुदितं, गीतं, हसितं, स्तनितं, कंदितं
| श्रोत्रग्राह्यं कर्णाभ्यां गृहीतुं योग्यं विशेषेण वर्जयेत, न शृणुयादित्यर्थः ॥५॥
५५३॥
For Private And Personal Use Only