________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥५४७॥
नो शृण्वन् विचरेत्. स्त्रीणां हि कामोद्दीपकशब्दश्रोता साधुन भवेदिति भावः. इति पंचमं ब्रह्मचर्यसमाधिस्थानं. एषा पंचमी वाटिका. ॥ ५॥ अथ षष्टी प्राह
॥ मूलम् ॥-नो निग्गंथे इत्थोणं पुवरयं पुवकोलिअं अणुसरित्ता हवइ, से निग्गंथे. तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु इत्थोणं पुत्वरयं पुवकीलियं अणुसरेमाणस्स बंभयारिस्स जाव धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे इत्थीणं पुवरयं पुवकीलियं सरिज्जा. ॥६॥ | व्याख्या-स निग्रंथो भवेत्, यः पूर्वं गृहस्थत्वे स्त्र्यादिभिः सह रतं कामासनैमथुनसेवनं, पुनस्ता- | भिरेव समं पूर्वक्रीडितं गृहस्थावस्थायां पुरा द्यूतादिकोडनं कृतं, तस्यानुस्मर्ता मुहुश्चिंतयिता नो भवेत्, स साधुर्भवेदित्युक्ते शिष्यः प्राह, तत्कथमिति चेत्तदाह-हे शिष्य ! खलु निश्चयेन स्त्रीभिः सह पूर्वकृतं रतं मैथुन, पूर्वकृतं यतादिक्रीडितमनुस्मरतो वारंवारं चिंतयतो निग्रंथस्य साधोब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यते. तस्मात् खलु निश्चयेन निग्रंथः स्त्रीभिः सह पूर्वरतं पूर्वक्रीडितं प्रत्यनुस्मर्ता न भवेत्, स साधुर्भवेत्. ॥ ६॥ इति षष्टं ब्रह्मचर्यसमाधिस्थानं. ॥ इति
For Private And Personal Use Only