________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
+ सटीक
॥५४६॥
HEAL
A-NCC-NCE%
वधानं कुड्यांतरं, तस्मिन् कुड्यांतरेस्थित्वेत्यध्याहारः, दृष्यांतरे वा वस्त्ररचितभित्त्यंतरे परिच्छदाया अंतरे स्थित्वाः, भित्त्यंतरे मृत्तिकापक्वेष्टिकाणां भित्तिव्यवधाने स्थित्वा वा, इत्थीणमिति स्त्रीणां कुइयसई संभोगसमये भोक्तुर्मनःप्रसत्तये कोकिलादिविहगशब्दानुरूपं कूजितशब्द, पुनः स्त्रीणां सादतशब्द, भोगसमये प्रेमकलहजनितं रोदनशब्दं वा, अथवा पुनीतशब्दं वा, पंचमरागादिहंकाररूपं गीतशब्दं वा, अथवा पुनः स्त्रीणां हसितशब्दं कहकहादिकहास्योत्पादिकाट्टादृदंतनिःकासनोद्भवशब्द, स्तनितशब्दं वा, भोगसमये दूरतरघनगर्जनानुकारिशब्दं वा, कंदितशब्द वा, प्रोषितभर्तृकाणां विरहिणीनां भर्तृवियोगदुःखाजातं, वाथवा विलपितशब्दं भर्तृगुणान् स्मारंस्मारं प्रलापरूपं शब्दंप्रति यः श्रोता न भवति स निग्रंथो भवति. इति श्रुत्वा शिष्यः पृच्छति. तत्कथं केन कारणेन ? यदेवमुच्यते, | इति श्रुत्वा आचार्य आह, हे शिष्य ! खलु निश्चयेन कुड्यांतरादिषु पूर्वोक्तस्थाने स्थित्वा स्त्रीणां पूर्वोक्तान् कूजितादिशब्दान् शृण्वतो निग्रंथस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शंका वा कांक्षा वेत्यादयो दोषा उत्पद्यते, तस्मात्कारणात् खलु निश्चयेन निग्रंथः कुड्यांतरेषु स्थित्वा स्त्रीणां कूजितादिशब्द
AC+
+
+
For Private And Personal Use Only