________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
॥५४१॥
जायंते. यदुक्तं प्रथमे जायते चिंता। द्वितीये दृष्टुमिच्छति ॥ तृतीये दीर्घनिःश्वासा-श्चतुर्थे ज्वरमादिशेत् ॥१॥ पंचमे दह्यते गात्रं । षष्टे भक्तं न रोचते ॥ सप्तमे च भवेत्कंप-मुन्मादश्चाष्टमे तथा ॥२॥ नवमे प्राणसंदेहो । दशमे जीवितं त्यजेत् ॥ कामिना मदनोद्वेगा- संजायंते दश त्वमी ॥३॥ इति स्त्रीदर्शनादश भावा उत्पद्यते. अथ पुनः केवलिप्रज्ञप्तात्केवलिप्रणीताद्धर्मात् श्रुतचारित्ररूपाद् भ्रस्येद् भ्रष्टो भवेत, तस्मादेतेषां दूषणानां प्रादुर्भावात् स निग्रंथो नो भवेत्. इति प्रथम ब्रह्मचर्यसमाधिस्थानं. एषा प्रथमा ब्रह्मचर्यतरोर्वाटिका.
॥ मूलम् ॥–नो निग्गंथे इत्थीणं कहे कहेत्ता हवइ से निग्गंथे तं कहमिति चेत् आयरिय आह, निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारस्त बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हविजा, केवलिपन्नत्ताओ धम्माओ भंसेजा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहेजा ॥२॥ व्याख्या-स| निग्रंथो भवति, स इति कः? यः स्त्रीणामर्थादेकाकिनीनां स्त्रीणामेव कथां वाक्यप्रबंधरूपां वाता,
For Private And Personal Use Only