________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥५४२।।
अथवा स्त्रीणां जातिकुलनेपथ्यविषयां, पद्मिनी, चित्रणी, हस्तिनी, शंखिनी, मुग्धा, मध्या, प्रौढादिरूपां कर्णाटलाटसिंहलादिदेशोद्भवानां नारीणां वर्णनरूपां कथांप्रति कथयिता न भवति स साधुर्भवतीत्यर्थः. स्त्रीणामग्रे कथां, अथवा स्त्रीणामेव वर्णनं करोति स साधुन स्यादिति भावः. इत्युक्ते शिव्यस्तत्कथमिति चेदेवं यदि मन्यसे, आचार्य आह-हे शिष्य! खल्लु निश्चयेन निग्रंथस्य साधोः स्त्रीणां कथां कथमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शंका, एनां सेवामि न सेवामि वेत्यादिरूपा, अथवा आकांक्षा, अग्रेतनानां पदानां पूर्वपदे योऽर्थःसज्ञेयः. नवरं तम्हा इति तस्माच्छंकादिदोषप्रादुर्भावात्खलु निश्चयेन निग्रंथः स्त्रोणामेवाग्रे स्त्रीणामेव केवला कथां न कथयेत्. ॥२॥ इति द्वितीयं ब्रह्मचर्यसमाधिस्थानं. एषा द्वितीया वाटिका. ॥२॥ अथ तृतीयामाह
॥ मूलम् ॥–नो निग्गंथो इत्थीहिं सद्धिं संनिसिज्जा, गए विहरत्ता हवइ से निग्गंथे. तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिज्जागयस्त विहरमाणस्स बंभयारिस्स बंभचेरे संका वा० तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिज्जा, गए विहरेज्जा. ।३।
CACACACCGAMAHOCOM
॥५४२॥
For Private And Personal Use Only