________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
टाखल निश्चयेन स्त्रीपशुपंडकादिभिः संसक्तनि शयनासनानि सेवमानस्य निग्रंथस्य ब्रह्मचर्यधा
रिणोऽपि साधोब्रह्मचर्ये शंकोत्पद्यते. किमयमेतादृशो विरुद्धानां शयनासनानां सेवी ब्रह्मचारो भवेत ॥५४०॥
न वा? आत्मनस्तु स्यादिभिरत्यंतापहृतचित्ततया मिथ्यात्वोदयादेव स्त्रीसेवने मैथुने नवलक्षसूक्ष्मजीवानां वधो जिनैः प्रोक्तः, तत्सत्यं वा मिथ्या वेत्यादिरूपः संशय उत्पद्यते. पुनर्बह्मचारिणः कांक्षा स्त्रीपशुपंडकादिभिमथुनेच्छोत्पद्यते. पुनर्ब्रह्मचारिणः साधोब्रह्मचर्ये विचिकित्सोरपद्यते. मया ब्रह्मचर्यपालने एतावन्महत्कष्टं विधीवते, तस्य ब्रह्मचर्यकष्टस्य फलं भविष्यति न वा? तस्माद्वरमेतेषां सेवनं, एतेषां सेवने सांप्रतं मम सुखं जायते, एतादृशी मतिः समुत्पद्यते. वाऽथवा भेदं चारित्रस्य विदारणं विनाशं लभेत, वाऽथवोन्मादं कामेन पारवश्यं प्राप्नुयात. वाथवा ताशस्यादिसहितानि स्थानानि सेवमानस्य साधोर्दीर्घकालिकं प्रचुरकालभावि स्त्र्यादिसेवनाभिलाषोत्कर्षत आहारादावरुचिनिद्राराहित्यादिदोषै रोगो दाघज्वरादिः, आतंकः शीघ्रघाती शूलादिः, रोगश्चातंकश्चानयोः समाहारो रोगातंकं शरीरे भवेत्. यतो हि कामाधिक्यात् कामिनां शरीरे दश कामभावा
CAM
५४०॥
For Private And Personal Use Only