________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥५३३।।
कीदृशाः शब्दाः? भयभैरवाः, भयेन भैरवा भयभैरवाः, अत्यंतसाध्वसोत्पादकाः, पुनः कीदृशाः? उदारा महांतो भवंति. ॥१५॥
॥मूलम् ॥-वाय विविहं समिच्च लोए । सहिए खेयाणगए य कोवियप्पा । पन्ने अभिभूय | सव्वदंसी। उवसंते अविहेडए स भिक्खू ॥ १६ ॥ व्याख्या-यः पुनलोंके विविधं वादं समेत्य अविहेठको भवेत्, कस्यचिद् बाधको न भवेत्, कस्यचित्पक्षपातं न कुर्यात्. लोके हि बहूनि दर्शनानि संति, ते परस्परं वादं कुर्वति, अन्योन्यं मतं दूषयंति, मुंडा जटाधारिभिः, नग्ना वस्त्रधारिभिः, गृहस्था | वनवासिभिः, इत्यादिस्वस्वमताभिप्रायवचनरूपं वादं कृत्वा कस्यापि बाधां न कुर्यादित्यर्थः. कीदृशो
यः? सहितो ज्ञानदर्शनचारित्रसहितः, पुनः कीदृशः? खेदानुगतः, खेदयति मंदीकरोति कर्मानेने| ति खेदः संयमः, तेनानुगतः खेदानुगतः सप्तदशविधसंयमरतः, पुनः कीदृशः? कोविदात्मा, कोविदो लब्धशास्त्रपरमार्थ आत्मा यस्येति कोविदात्मा. पुनः कीदृशः? प्राज्ञःप्रकर्षेणान्येभ्य आधिक्येन जानातीति प्राज्ञः सारबुद्धिमान्. पुनः कीदृशः? अभिभूय सर्वदर्शी, अभिभूय परीषहान् जित्वा
HODHI1545453
For Private And Personal Use Only