________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥५३२॥
CA-CHIN
| तानि दुर्बलानि, चित्तवित्ताभ्यां दुर्बलानि, एतादृशानि कुलान्याहारार्थ परिव्रजेत्, सर्वदा धनिना| मेव कुलेषु यो न याति, सर्वदा दानशौंडानामेव कुलेषु न याति, ततो हि नियतपिंडसेवनात्साधोधर्महानिः स्यात्. तु पुनर्य आयामकं धान्यस्याऽवश्रवणं, च पुनर्यवोदनं यवभक्तं, पुनः शीतं चिरकालीनं, पुनः सौवीरं कांजिकं, पुनर्यवोदकं यवप्रक्षालनजलमित्यादिकं, पुनर्यन्नीरसं पिंडं सर्वथा | रसवर्जितमेतादृशमाहारं पानीयं गृहस्थानां गृहाल्लब्धं यो न हीलयेन्न निंदेत्, कदन्नमिदं, कुत्सितं पानीयमेतदित्यादिवचनं न ब्रते, स साधुर्भिक्षुरित्युच्यते. ॥ १४ ॥
॥ मूलम् ॥-सदा विविहा भवंति लोए । दिवा माणुस्सया तहा तिरिच्छा ॥ भीमा भयभेरवा उराला । जे सुच्चा न विहजइ स भिक्खू ॥ १५॥ व्याख्या-य एतादृशान् शब्दान् श्रुत्वा न विहजइ न व्यथते, धर्मध्यानान्न चलते स भिक्षुरुच्यते. एतादृशान् कीदृशान् ? ये शब्दा लोके दिव्याः. दिवि भवा दिव्याः, देवैर्भयाय कृताः, पुनर्ये शब्दा मानुष्यका मनुष्यैः कृता मानुष्यकाः, तथा ये शब्दास्तिरश्चीनास्तैरश्चास्तिर्यग्भ्यो भवास्तिरश्चीना भवंति, तान् श्रुत्वा न क्षोभं प्राप्नोति.
C O-COMCT-OCA
*॥५३२॥
For Private And Personal Use Only