________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ५३१ ॥
www.kobatirth.org
1
यंते । जे तत्थ न पउस्सई स भिक्खु ॥ १३ ॥ व्याख्या - पुनर्यः शयनासनपानभोजनं, पुनर्विविधं खादिमस्वादिमं, परेण गृहस्थेनादत्ते, अथवा गृहे साधौ प्रतिषिद्वे सति तस्मिन् गृहस्थे प्रद्वेषं न करोति, न प्रद्वेष्टि. कोऽर्थः ? यदा कश्चित्साधुः कस्यचिद् गृहस्थस्य गृहे गतस्तस्य च गृहस्थस्य गृहे प्रभृतं शयनं शय्या, चाशनं मोदकादिकं, पानं खर्जूरद्राक्षादिपानीयं शर्करादिजलं, प्रासुकं तंडुलप्रक्षालनजलं वा, भोजनं तंडुलदाल्यादि, पुनर्विविधं नानाप्रकारं खादिमं खर्जूरनालिकेरगरिकादिकं, स्वादिमं लवंगैलाजातिफलतजादिकं वर्तते, परं स गृहस्थः साधवे न प्रददाति, अथवा पुनर्निवारयति, यथा रे भिक्षो! अब नागंतव्यमिति तद्वाक्यं श्रुत्वेति न जानाति, धिगेनं गृहस्थं दुष्टं, यः प्रभूते वस्तुनि सति मह्यं न ददाति, अथ च मां निवारयतीति द्वेषं न विधत्ते, स साधुर्भिक्षुरित्युच्यते ॥ १३ ॥
॥ मूलम् ॥ आयामगं चेव जवोदणं च । सीयं च सोवीरजवोदगं च ॥ नो हीलए पिंड निरसं तु पंतं । कुलाई परिवए स भिक्खू ॥ १४ ॥ व्याख्या - यः प्रांतानि कुलानि परिव्रजेत्, प्रां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५३१ ॥