________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥५३४॥
BBS
रागद्वेषो निवार्य सर्वजंतुगणमात्मसदृशं पश्यतीत्येवंशीलः सर्वदर्शी. पुनः कीदृशः? उपशांतः कषा- सटीक यरहितः स्यात्, स भिक्षुरित्युच्यते. ॥ १६ ॥
॥ मूलम् ॥–असिप्पजीवी अगिहे अमित्ते । जिइंदिए सव्वउ विप्पमुक्के ॥ अणुक्कसाई लहु अप्पभक्खी । चिच्चा गिहं एग चरेस भिक्खुत्तिबेमि ॥ १६ ॥ व्याख्या-स भिक्षुर्भवेत्, स इति कः? यो गृहं द्रव्यभावभेदेन द्विविधं त्यक्त्वैक एकाकी रागद्वेषरहितोऽसहायो वा चरतीत्येकचरः | स्यात्. कथंभूतः सः? अशिल्पजीवी शिल्पेन विज्ञानेन जीवते आजीविकां करोतीति शिल्पजीवी. न शिल्पजीवी अशिल्पजीवी, चित्रकरणादिविज्ञानेनाजीविकां न करोतीत्यर्थः, पुनः कीदृशः? अगृहो न विद्यते गृहं यस्य सोऽगृहः स्त्रीपरिचयरहितः, अथवा गृहस्थैः सह परिचयरहितः. पुनः कीदृशः? अमित्रः शत्रुमित्ररहितः, पुनः कीदृशः? जितेंद्रियः. पुनः कीदृशः? सर्वतो विप्रमुक्तो बाह्याभ्यंतरसंयोगाद्विप्रमुक्तः सर्वपरिग्रहरहितः. पुनः कीदृशः? अणुकषायो मंदकषायीत्यर्थः. पुनः कीदृशः? लघ्वल्पभक्षी, लघूनि निःसाराणि वल्लचणकनिःपावककुलत्थमाषादिप्रासुकाहाराणि, तानि स्तोकानि
P५३४॥
For Private And Personal Use Only