________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५२९ ।।
59
www.kobatirth.org
॥ मूलम् ॥ - खत्तिगणउग्गरायपुत्ता । माहणभोइय विविहा य सिप्पिणो ॥ नो तेसिं वयइ सिलोगइयं । तं परिन्नाय परिवए स भिक्खू ॥ ९ ॥ व्याख्या - स भिक्षुरित्युच्यते स इति कः ? यस्तेषां गाथोक्तानां श्लोकः कीर्तिर्यथा, एते भव्याः पूज्या इति एते पूजायोग्याः, एतेषां पूजा कर्तव्या, एतेषां कोर्तिकरणे, एतेषां पूजाया उपदेशे च न कश्चिल्लाभः स्यात्, साघुनैतेषां कीर्तिपूजे न कर्तव्ये इत्यर्थः एते के के ? ये क्षत्रिया राजानः, तथा गणा मल्लादीनां समूहाः, पुनरुप्राः कोट्टपालाः, राजपुत्रा राजकुमाराः, ब्राह्मणाः प्रसिद्धाः, भोगिनो भोगवंशोद्भवाः, अथवा भोगिनो विषयभोक्तारः, च पुनर्विविधा नानाप्रकाराः शिल्पिनश्चित्रकारसूत्रधारस्वर्णकारलोहकारादयो ये वर्तते, तान् परिज्ञायोभयथा ज्ञात्वा साधुः साधुमार्गे परिव्रजेत् ॥ ९ ॥
॥ मूलम् ॥ - गिहिणो जे परिवइएण दिट्टा । अप्पवईएण च संधुया हविज्जा ॥ तेसिं इह लोइयफलठ्ठा । जो संथवं न करेइ स भिक्खू ॥ १० ॥ व्याख्या – यस्तैर्गृहस्थैः सह इहलोकफलार्थ संस्तवं परिचयं न करोति, प्राकृतत्वात् तेसिमिति तृतीयास्थाने षष्टी तैर्गृहस्थैः कैः ? ये गृहस्थाः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ५२९ ॥