________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyarmandie
सटीक
१५२८॥
CCC-
॥ मूलम् ॥-मंतं मूलं विविहं विजचिंत । वमणविरेयणधूमनेत्तसिणाणं ॥ आउरे सरणं आयतिगच्छियं च । तं परिन्नाय परिवए स भिक्खू ॥८॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स इति कः? य एतत् सर्व परिज्ञाय परि समंताद् ज्ञात्वा परिज्ञाय परिव्रजेत् साधुमार्गे चरेत्, 'जाणि| यवा नो समायरियवा' इत्युक्तेः. एतत् किं किं? मंत्रं ओम् ह्रीम्प्रभृतिकं स्वाहांतं देवाराधनं. मूलं मूलिका राजहंसीशंखपुष्पीशरपुंखादिगुणसूचकं शास्त्रं. पुनर्विविधं नानाप्रकारं वैद्यचिंतं. वैद्यकशास्त्रस्यौषधचिकित्सालक्षणस्य चिंतनं वर्जयेत्, विदलं शूली कुष्टी मांसं ज्वरी घृतमित्यादि. पुनर्वमनं वमनादिकरणोपायं, अथवा वमनफलं, ज्वरादौ वमनं श्रेष्टं, तथा विरेचन विरेचगुणकथनं तदोषधप्रयोगचिंतनं. धूमो मनःशिलादिसंबंधी भूतत्रासनादिकः. नेत्रशब्देन नेत्रसंस्कारकं गुटीचूर्णादिकं. स्नानमपत्यार्थं मंत्रौषधीभिः संस्कृतजलैमूलादिस्नानं, अथवा रोगमुक्तस्नानं वा. पुनरातुरे इति आतुरस्य रोगादिपीडितस्य हा मातरित्यादिस्मरणं, आत्मनश्चिकित्सितं रोगप्रतिकारचिंतनं परित्यजेत. एतत्सर्वं परिज्ञायात्मनः परस्य वोभयथा परिव्रजेत्, साधुमार्ग यायादित्यर्थः ॥ ८॥
%4-04-CANCHAR
11५२८॥
1-5
For Private And Personal Use Only