________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटीक
॥५२३॥
न मूर्छितोऽलोलुप इत्यर्थः ॥ २॥
॥ मूलम् ॥-आकोसवहं विदित्तु धीरे।मुणी चरे लाढे निच्चमायगुत्ते ॥ अविग्गमणे असंपहिहे। जे कसिणं अहियासए स भिक्खु ॥३॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स इति कः? य आक्रोशश्च वधश्चानयोः समाहार आक्रोशवधं वाक्तर्जनताडनं विदित्वा स्वकर्मफलं ज्ञात्वा धीरस्तदाक्रोशवधादिसहनशीलो मुनिर्वाग्गुप्तियुक्तः सन् चरेत् साधुवम॑नि विहरेत्. पुनः कीदृशः सन्? लाढः साध्वनुष्टाने तत्परः. पुनः कीदृशः? नित्यमात्मगुप्तः, गुप्तोऽसंयमस्थानेभ्यो रक्षित आत्मा येन स गुप्तात्मा, प्राकृतत्वाद्विपर्ययः. पुनः कीदृशः? अव्यग्रमना अनाकुलचित्तः. पुनः कीदृशः? असंप्रहृष्ट आक्रोशादिषु न प्रहर्षवान्, कश्चित्कदाचित्कस्मैचिद् दुर्वचनैर्निर्भर्त्सयति तदा हर्षितो न भवतीत्यर्थः. पुनर्यः कृत्स्नं समस्तमाकोशवधमध्यास्ते सहते समवृत्तिर्भवति स साधुरित्यर्थः ॥३॥ ॥ मूलम् ॥-पंतं सयणासणं भइत्ता। सीउण्हंपि विविहं च दंसमसगं ॥ अवग्गमणे अ
PH५२३॥ | संपहिहे । जे कसिणं अहियासए स भिक्खू ॥ ४ ॥ व्याख्या-पुनर्यः प्रांतमसारमप्रधान शयन
CA-A-C5%A
RC+
For Private And Personal Use Only