________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
+सटोकं
1॥५२४।।
मासनं, उपलक्षणत्वाद्भोजनाच्छादनादिकं भजित्वा सेवयित्वा, पुनः शीतोष्णं, च पुनर्विविधं देशमशकं रुधिरपानकरं जंतुगणं सकलं प्राप्य अव्यग्रमना भवेत् स्थिरचित्तो भवेत्. पुनर्यः सम्यक् शयनासनभोजनाच्छादनलाभात्, शीतायुपद्रवरहितस्थानलाभात्, तथा दंशमशकादिरहितस्थानलाभादसंप्रहृष्टो भवति हर्षितो न भवति, समसुखदुःखो भवति, एतादृशः सन्नेतत्सर्वमध्यास्ते स भिक्षुरित्युच्यते. ॥४॥
E-CONCCCCCCCARECAL
॥ मूलम् ॥-नो सक्रियमिच्छई न पूयं । नोवि य वंदणगं कओ पसंसं॥ से संजए सुब्बए तवस्ती । सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-स भिक्षुर्भवेत्. स इति कः? यः सत्कृतं सत्कारमात्मनः सन्मुखं जनानामागमनमम्युत्थानादिकं, विहारं कुर्वतोऽनुगमनेन संप्रेषणं, इ. | त्यादिकं नो इच्छति. पुनर्यः पूजां वस्त्रपात्राहारादिभिरर्चा नेच्छति. अपि च पुनवंदनकं द्वादशावतपूर्वकं नमनं, तदपि न वांछति. कुतश्चित्पुरुषात्प्रशंसामपि नो इच्छति. स संयतः, सम्यग् यतते
॥ ५२४॥
For Private And Personal Use Only