________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तरा
सटोक
॥ ५२१॥
जेत्, अनियतमप्रतिबद्धं यथास्यात्तथा विहरेविहारं कुर्यात् स भिक्षुरुच्यते. स इति कः? यः पूर्व | मनस्येवं जानाति, अहं मौनं, मुनीनां कर्म मौनं साधुधर्म चरिष्यामि श्रामण्यमंगीकरिष्यामि. किं कृत्वा? धर्म दशविधं पंचमहाव्रतदीक्षां समेत्य प्राप्य, पुनयों दीक्षां गृहीत्वा संस्तवं पूर्वपश्चासंस्तवं परिचयं कुटुंबस्नेहं जह्यात् त्यजेत्. परं कीदृशः सन् ? सहिए इति सहितः स्थविरैर्बहुश्रुतैः साधुभिः सहितः, साधुयेकाको न तिष्टेत्. 'इक्कस्स कओ धम्मों' इत्युक्तत्वात्. अथवा कथंभूतः सन् ? खहितः सन्, स्वस्य हितं यस्य स स्वहित आत्महिताभिलाषी. पुनः कीदृशः? उजुकडे ऋजु सरलं कृतं मायारहितं तपो येन स ऋजुकृतः, अशठानुष्टानकारीत्यर्थः. पुनः कीदृशः? 'नियाणछिन्ने छिन्ननिदानो निदानशल्यरहित इत्यर्थः. पुनः कीदृशः? अकामकामो न विद्यते कामस्य कामोऽभिलाषो यस्य सोऽकामकामः कामाभिलाषरहितः, पुनः कीदृशः? 'अन्नायएसी' अज्ञातैषी, यत्र कुले तस्य साधोस्तपोनियमादिगुणो न ज्ञातस्तत्रैषयते ग्रासादिकं गृहीतुं वांछते, इत्येवंशीलोऽज्ञातैषी. य एवंविधः स 17॥५२१ ॥ भिक्षुरित्युच्यते. अनेन सिंहतया निःक्रम्य सिंहतया विहरणं भिक्षुत्वनिबंधनं प्रोक्तं साधूनां. चतु
Orand
For Private And Personal Use Only