________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassage si Gyanmandie
उत्तरा
सटीक
॥५१९॥
गृह्य भावतोंगीकृत्य. पुनः कथंभूतास्ते सर्वे? घोरपराक्रमाः, घोरं पराक्रमं धर्मानुष्टानविधिर्येषां ते घोरपराक्रमाः. पुनः कीदृशास्ते सर्वे ? धर्मपरायणा धर्मध्याने तत्परा इत्यर्थः, पुनः कीदृशास्ते ? जन्ममृत्युभयोद्विग्ना जन्ममरणभीतिभीताः. पुनस्ते सर्वे किं कर्तुमिच्छवः? दुःखस्यांतं मोक्षं गवेषिणो मोक्षाभिलाषिण इत्यर्थः ॥ ५१ ॥
॥ मूलम् ॥-सासणे विगयमोहाणं । पुत्विं भावेण भाविया ॥ अचिरेणैव कालेणं । दुक्खस्संतमुवागया ॥ ५२ ॥ व्याख्या-पुनस्ते षडपि जीवा अचिरेणैव कालेन स्तोककालेन दुःखस्य संसारस्यांतमवसानमर्थान्मोक्षमुपागता मोक्ष प्राप्ताः. कीदृशास्ते? विगतमोहानां वीतरागाणां शासने तीर्थे पूर्व पूर्वस्मिन् भवे भावनया सम्यविक्रयाभ्यासरूपया द्वादशविधमनःपरिणतिरूपया भाविता रंजितात्मानः ॥५२॥ अथ तेषां सर्वेषां षण्णामपि जीवानां नामान्याह
॥ मूलम् ॥-राया य सह देवीए । माहणो य पुरोहिओ ॥ माहणी दारगा चेव । सवे ते परिनिव्वुडेत्तिबेमि ॥ ५३॥ व्याख्या-राजा इषुकारी, देव्या पट्टराझ्या कमलया सह, ब्राह्मणो भृ
OACHINCHARACTICESCAM
॥ ५१९॥
For Private And Personal Use Only