________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥५१८॥
॥ मूलम् ॥--चइत्ता विउलं रजं । कामभोगे य दुच्चए ॥ निविसया निरामिसा । निन्नेहा निपरिग्गहा ॥ ४९ ॥ सम्मं धम्म वियाणित्ता।चिच्चा कामगुणे वरे॥ तवं पगिजहक्खायं । धोरं घोरपरक्कमा ॥ ५० ॥ एवं ते कमसो बुद्धा । सबै धम्मपरायणा ॥जम्ममच्चुभउविग्गा।दुक्खस्संतगवेसिणो ॥ ५१ ॥ तिसृभिः कुलकं ॥ व्याख्या--एवममुना प्रकारेण ते सर्वेऽपि क्रमशोऽनुक्रमेण षडपि जीवा बुद्धाः प्रतिबोधं प्राप्ताः, किं कृत्वा ? विपुलं विस्तीर्णं राज्यं त्यक्त्वा. च पुनर्दुस्त्यजान् कामभोगांस्त्यक्त्वा. कथंभूतास्ते? सर्वे निर्विषया विषयाभिलाषरहिताः, पुनः कथंभूताः? निरामिषाः स्वजनादिसंगरहिता निःस्नेहाः, पुनः कीदृशाः? निःपरिग्रहा बाह्याभ्यंतरपरिग्रहरहिताः ॥४९॥ पुनस्तेजीवाः किं कृत्वा प्रतिबोध प्राप्ताः?सम्मंसम्यक्प्रकारेण धर्मं साधुधर्म विज्ञाय, पुनर्वरान् दुर्लभान् प्रधानान् | कामगुणांस्त्यक्त्वा, कामस्य मदनस्य गुणकारित्वात्कामवृद्धिकरत्वाद् गुणाः कामगुणास्तान् कामगुणान् दुर्लभान् स्रक्चंदननवनीतादीन कामोद्दीपनौषधादीस्त्यक्त्वा. अत्र पुनः कामगुणग्रहणं तेषामतिशयख्यापनार्थ. पुनः किं कृत्वा? घोरमधीरपुरुषैर्दुरनुचरं यथाख्यातं तीर्थकरोदिष्टं द्वादशविधं तपः प्र
HCCCCCCIA.
For Private And Personal Use Only