________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटीक
| कामैः पीडिताः संसारे भ्रमंतीति ज्ञात्वा. त्वं क इव शंकमानः सन् ? सुपर्णपाचे गरुडसमीपे उर
ग इव सर्प इव. यथा गरुडपाचे सर्पः शनैः शनैः शंकमानः सन् चरति, यथा गरुडो न जानाति ॥ ५१७॥
तथा अविश्वासी सन् स्वल्पं तनु यथास्यात्तथा चलति, तथा त्वमपि गरुडोपमानां विषयाणां विश्वास मा कुर्याः. अत्र हि विषयाणां गरुडोपमानं संयमरूपजीवितापहारकत्वात्. नरस्य हि भोगलोलुपत्वादुरगोपमानं, यत उरगो भोग्येवोच्यते, विषयास्तु दृश्यमानाः सुंदरा गरुडाकाराः, भोगिनां हि विषयेभ्य एव मृत्युः स्यात, तस्माद्विषयेभ्यः शंकनीयमित्यर्थः ॥४७॥
॥ मूलम् ॥-नागुब्व बंधणं छित्ता । अप्पणो वसहिं वए ॥ एवं पत्थं महाराय । उसुयारित्ति &ामे सुयं ॥४८॥ व्याख्या-हे राजन् ! नाग इव हस्तीव बंधनं छित्वात्मनो वसतिं स्वकीयस्था
नं विंध्याटवीं यांति, तथा त्वमपि बलवत्त्वान्नागो विषयशृंखलां छित्वात्मनः स्थानं मुक्तिं ब्रजेः, धीरपुरुषा गजतुल्याः, विषयाःशृंखलातुल्याः, मुक्तिर्विध्याटवीवात्मगजस्य स्थानमुक्तं. हे इषुकारिमहाराज! मयासाधुमुखादिति पथ्यं हितं श्रुतमस्ति, नाहं स्वबुध्ध्या ब्रवीमीत्यर्थः ॥४८॥
1755-5
॥५१७॥
For Private And Personal Use Only