________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥५१६ ॥
विहरामि निरामिसा ॥ ४६॥ व्याख्या-हे राजन्नहं सर्वमामिषमभिष्वंगहेतुं धनधान्यादिकं उज्झित्ता त्यक्त्वा निरामिषा त्यक्तसंगा सत्यप्रतिबद्धविहारतया विहरिष्यामि. किं कृत्वा ? सामिषमामिषसहितं कुललं गृद्धमपरं पक्षिणं वा परित्यन्यैर्वध्यमानं पीड्यमानं दृष्ट्वा. सामिषः पक्षी ह्यामिषाहारिपक्षिभिः | पीड्यते, अथवा सामिषं सस्पृहं भोजनाद्यर्थे लुब्धं कुललं पक्षिणं परैर्बध्यमानं पोड्यमानं दृष्ट्वा. यतो हि पक्षिणो यदा गृह्यते, तदा तान् भक्ष्यं दर्शयित्वा पाशादिना बध्यंते. आमिषाहारी शकुनिस्तु आमिषदर्शनेनैव लोभयित्वा मीनवध्यते. सह आमिषेण आमिषरसास्वादलोभेन वर्तते इति सा. मिषस्तं सामिषं. ॥ ४६॥
॥ मूलम् ॥-गिद्धोवमे उ नच्चा णं । कामे संसारवट्ठणे ॥ उरगो सुवन्नपासिव । संकमाणो तणुं चरे ॥४७॥ व्याख्या-हे राजन् ! त्वमपि विषयेभ्यः शंकमानः सन् तनुं स्वल्पं यतनया चरेरिति चरस्व ? विषयेभ्यो भीतिः पदे पदे विधेयेत्यर्थः. किं कृत्वा? गृद्धोपमान् पूर्वोक्तसामिषकुललोपमान् विषयलोलुपान् जनान् ज्ञात्वा. तु पुनः कामान् संसारवर्धकान् ज्ञात्वा, विषयलोलुपाः
॥ ५१६॥
For Private And Personal Use Only