SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५१२ ।। www.kobatirth.org ॥ मूलम् ॥ सवं जगं जइ तुम्हं । सवं वावि धणं भवे ॥ सर्व्वापि ते अपज्जत्तं । नेव ताणाय तं तव ॥ ३९ ॥ व्याख्या - हे राजन् ! यदि सर्वं जगत् समस्तोऽपि भृलोकस्तव भवेत्, तवायत्तः स्यात्, वा अथवा सर्वमपि धनं रजतस्वर्णरत्नादिकमपि तव भवेत् तत्सर्वं जगत् पुनः सर्वमपि धनं ते तवाऽपर्याप्तं भवेत्, तवेच्छापूरणायाऽसमर्थ स्यात्, यत इच्छाया अनंतत्वात् पुनस्तत्सर्वं जगत्, तत्सर्वं धनं च त्राणाय मरणभयाद्रक्षणाय तव न भवेत्, यदि जगद्धनं तवेच्छापूरणाय, अथ च मरणाद्रक्षणायाऽसमर्थ, तदा किं ब्राह्मणपरित्यक्तधनग्रहणेनेत्यर्थः ॥ ३९ ॥ ॥ मूलम् ॥ मरिहिसि रायं जया तया वा । मणोरमे कामगुणे पहाय ॥ एको हु धम्मो नरदेव ताणं । न विज्जई अन्नमिहेह किंचि ॥ ४० ॥ व्याख्या - हे राजन् ! यदा तदा यस्मिंस्तस्मिन् काले मनोरमान् मनोहरान् कामगुणान् प्रहाय प्रकर्षेण त्यक्त्वा मरिष्यसि, म्रियमाणस्य पुरुषस्य धनादि सार्थे न भवति. हे नरदेव ! हु इति निश्चयेनैको धर्म एव त्राणं शरणं विद्यते. इह जगति, इह मृत्यौ वा जीवस्यान्यत्किंचित् त्राणं न विद्यते ॥ ४० ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५१२ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy