________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassage si Gyanmandie
सटीक
॥५११॥
लुत्तमं तं । रायं अभिक्खं समुवाय देवो ॥ ३७ ॥ व्याख्या-अथ यदा चतुर्णा प्रवज्याया मनोऽभूत् तदा किं समभूदित्याह-राजानं तमिषुकारिणं देवी कमला अभीक्ष्णं वारंवारं समुवाच, सम्यक् प्रकारेण शिक्षापूर्वकमुवाच. किं कृत्वा ? पुरोहितं भृगु ससुतं पुत्रसहितं, सदारं सपत्नीकं भोगान् प्रहाय प्रकर्षेण त्यक्त्वा, पुनर्विपुलं विस्तीर्णमुत्तमं तं कुटुंबसारं प्रहाय त्यक्त्वा, कुटुंबं खजनवर्ग, सारं धनधान्यादिकं, उभयमपि त्यक्त्वा, अभिनिःक्रम्य गृहान्निर्गत्य प्रजितमिति श्रुत्वा. तस्य पुरोहितस्य धनादिकं गृहृतं राजानं राज्ञी प्राहेत्यर्थः. ॥ ३७॥
॥मूलम् ॥-वंतासी पुरिसो रायं । न सो होइ पसंसिओ ॥माहणेण परिचितं । धणं आयाउमिच्छसि ॥ ३८ ॥ व्याख्या-राज्ञी किमुवाचेत्याह-हे राजन् ! यो वांताशी स पुरुषः प्रशंसनीयो न भवेत् श्लाघ्यो न भवेत्. हे राजन् ! ब्राह्मणेन परित्यक्तं धनं त्वमादातुमिच्छसि,ब्राह्मणेन त्यक्तं धनं वाताहारसदृशं गृहीत्वा त्वं श्लाघ्यो न भविष्यसीत्यर्थः. वांतं वदनादुद्गतमाहारमश्नातीत्येवंशीलो वांताशी वाताहारभोक्तेत्यर्थः ॥ ३८॥
५११॥
For Private And Personal Use Only