________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥४७॥
000000000000000000000
लिमुत्क्षिप्य चिंतितवान्, कथं जलं पिबामि? यतः-एगमि उदगबिंदुमि । जे जीवा जिणवरेहिं पन्नत्ता ॥ ते पारेवयमित्ता । जंबुद्दीवे न मायति ॥१॥जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ निच्चिओ अग्गी ॥ तेउवाउसहगया। न सा य पच्चक्खया चेव ॥२॥ हंतूण परप्पाणे । अप्पाणं जे कुणंति सप्पाणं ॥ अप्पाणं दिवसाणं । कए य नासेइ अप्पाणं ॥३॥ इति संवेगेन जलमंजलितः पश्चाद्यत्नेन मुक्तं, ततस्तृषया मृत्वा स देवो जातः, अवधिज्ञानावगतपूर्वभववृत्तांतेन तेन साधुनामनुकंपया पथि गोकुलं कृतं, तत्र तक्रादि शुद्धमिति गृहीत्वा साधवः सुखिनो जाताः, अग्रे चलिताः, तेन देवेन स्वस्वरूपज्ञापनार्थमेकस्य साधोविटिका गोकुले स्थापिता. विंटिग्रहणार्थ पश्चाट्यावृत्तमुनिवचसा सर्वैरपि साधुभितिगोकुलाभावैस्तत्र दिव्यमाया ज्ञाता, तपिंडभोजनविषयं मिथ्यादुःकृतं दत्तं. ततस्तत्रायातेन देवेन पितरं मुक्त्वा सर्वे साधवो वंदिताः, पित्राऽवंदनकारणं पृष्टः सर्वं स्व-16 वृत्तांतं पितुर्जलयानानुमतिं च प्रोच्य गतो देवः स्वस्थानं, एवं क्षुल्लककृत्तृट्परीषहः सोढव्यः, ॥२॥ अथ क्षुधापिपासापीडितस्य कृषस्य शीतमपि शरीरे लगति, तदपि सोढव्यं, तदपिगाथाद्वयेनाह
0000.000000000000000
॥
७
For Private And Personal Use Only