________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सटीकं
उत्तरा- वयादिना शुद्धस्यैषणाय ग्रहणाय चरेत्, प्रासुकपानीयग्रहणाय गृहस्थगृहे ब्रजेदित्यर्थः, ॥ ४ ॥ अथ
ग्रामनगरादिभ्यो बहिर्वनाटव्यादिमार्गे व्रजन् साधुश्चेत्तृपया पीडितः स्यात्तदापि तृषापरीषहं सहेन्न ॥४६॥
तु तत्र साधुनैवं ज्ञातव्यमत्र कोऽपि गृहस्थोदाता न दृश्यतेऽहं स्वयमेव जलं गृहीत्वा पिबामि. तदेव | मार्गवैषम्यमाह- छिन्नेति' एतादृशेषु पथिषु मार्गेषु पूर्वोक्तस्तपस्वी पिपासापरीषहं तितिक्षेत सहेत, कीदृशेषु? पथिषु छिन्नो गत आपातो लोकानां गमनागमनं येभ्यस्त छिन्नापातास्तेषु, कीदृशः? 2 स्वयं तपस्व्यातुरस्तृषाया आकुलतनुः, पुनः कीदृशः? सुपिपासितः, सुतरामतिशयेन पिपासितोऽत्यंतं तृषितः, पुनः कीदृशः? परिशुष्कमुखो गतनिष्टीवनत्वेन शुष्कताल्लुजिह्वोष्टः. पुनः कीदृशः? हा एतादृशोऽप्यदीनः ॥ ५॥ अत्र धनमित्रकथा
उजयिन्यां धनमित्रो वणिक्, धनशर्मनाम्ना स्वसुतेन समं प्रबजितः. अन्यदा मागें क्षुल्लकस्तृTo पीडिता नदी दृष्ट्वा पित्रावादि वत्स! पिब जलं पश्चादालोचनया दोषशुद्धिर्भाविनी, इत्युक्ते क्षुल्लो |
नेच्छति, ततः पिता साधुः स्वशंकानिरासार्थ शीघ्र नदीमुत्तीर्याग्रे गतः, क्षुल्लो नद्यां प्रविष्टो जलांज
3000000000000000000000
1000000000000000000000
198
For Private And Personal Use Only