________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ४५ ॥
500003
www.kobatirth.org
ज? तन्निवासिनो जना भिक्षां दास्यंति. ततस्तथेति भणित्वा क्षुल्लकस्तत्र गतो धर्मलाभमुच्चचार, सदेवो नरनारीरूपं विधाय करं प्रसार्य दिव्यशक्त्या तस्मै भक्तपानादि ददौ तावद्यावद् दुर्भिक्षे निवृत्ते भोजकटनगरात् पश्चाद्वलिताः साधवस्तेनैव मार्गेण तत्रागताः, जीर्णशवं दृष्ट्वा ज्ञातदिव्यप्रयोगास्तं क्षुल्लकं गृहीत्वा विजहुः यथा ताभ्यां पितृपुत्राभ्यां क्षुत्परीषहः सोढस्तथा सांप्रतिकमुनिभिरपि सोढव्यः. ॥ अथ भिक्षामटतस्तृषाया उदयः स्यात्तदा तत्परीषहोऽपि सोढव्यः, इममेवार्थं गाथाद्वयेनाह
॥ मूलम् ॥ - तओ पुट्टो पिवासाए । दुगंच्छीलज्ज संजए ॥ सीओदगं न सेविज्जा । वियडस्से सणं चरे ॥ ४ ॥ छिन्नावासु पंथेसु । आउरे सुपिवासिए | परिसुक्कमुहे दीणे । तं तितिक्खे परी - सहं ॥ ५ ॥ व्याख्या - ग्रामनगरादौ भिक्षार्थं भ्रमन् दुगंछी अनाचाराद्भीतः, एतादृशो लज्जसंयतो लज्जायां सं सम्यक् यतते यत्नं कुरुते इति लज्जसंयतो लज्जावान् साधुर्न हि निर्लज्जो धर्मार्हः, तस्मालज्जसंयतस्तपस्वी, ततः क्षुधापरीषहानंतर एव पिपासया तृपया स्पृष्टः सन् शीतोदकमप्रासुकजलं न सेवेत न पिबेदित्यर्थः, ' वियडस्स ' प्रासुकजलस्य शस्त्रपरिणितस्य रसांतरं वर्णांतरं च प्राप्तस्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9999999999999999999996
सटीकं
॥ ४५ ॥