________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥४४॥
తం తలకు భారత ప్రలాపురం తంతంత
0 00-00
तपसो वृद्धिलब्धे देहधारणा इति बुद्धिं चित्ते दधानस्तिष्टेदित्यर्थः ॥३॥ तत्र दृष्टांतो यथा
उज्जयिन्यां हस्तिमित्रश्रेष्टी वर्तते, तस्य हस्तिभूतनाम बालकोऽस्ति, अन्यदाहस्तिमित्रश्रेष्टिनः। प्रिया मृता, दुःखगर्भ वैराग्येण हस्तिमित्रश्रेष्टी हस्तिभूतदारकेण समं प्रवजितः, अन्यदा दुर्भिक्षे साधुभिः समं विहरन्नसी हस्तिमित्रसाधुभोजकटनगरमार्गाटव्यां कंटकेन विद्धपादोऽग्रे विहर्तमक्षमोऽटव्यामेव स्थितः, तमक्षमं दृष्ट्वासाधुभिर्भणितं वारकेण त्वां मार्गे वहिष्यामः, मा विषादं कृथाः, तेन भणितं मदायुः स्तोकमेवास्ति, अतोऽहमत्रैव भक्तं प्रत्याख्यामि, यूयं यात ? मदर्थमत्र स्थितस्यान्यस्य कस्यापि साधोभृिद्विनाश इत्युक्तवंतं क्षमयित्वा भक्तपानप्रत्याख्यानं कारयित्वा तत्रैव मुक्त्वा चानिच्छंतमपि अलकं गृहीत्वा ते साधवश्चेलः. क्षुल्लकोऽर्धमार्गात्तान् विप्रतार्य पितृमोहेन तत्रायातः, तावता गृहीताऽनशनःस मृतो देवोऽभूत, क्षुल्लको मोग्ध्या मृतं न जानाति, सुतस्य तत्कलेवरस्य पार्श्व एव भ्रमति, क्षुधात्तोऽपि फलादिकं न गृह्णाति, ततः स देवः क्षुल्लकमोहेन निजदेहमधिष्टायावदद्वत्स! गच्छ भिक्षायां ? क्षुल्लकेन भणितं कुत्र बजामि ? तेन भणितमेषु धवनिकुंजेषु त्वं
fo@@@@@90
॥४४॥
For Private And Personal Use Only