________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
सटीकं
॥४
॥
0000000000000000000004
तरूणां फलादिकं स्वयं न त्रोटयेत्, न चापरेण छेदयेत्, न च स्वयमन्नादिकं शाकादिकं च पचेत्, न च परेण पाचयेत्, नवकोटिशुद्धिबाधां न कुर्यात्, कथंभूतस्तपस्वी स्थामवान् मनोबलयुक्तः, पुनः कीदृशः? कालीपर्वांगसंकाशः, काली काकजंघा, तस्याः पर्वाणि मध्ये तनूनि भवंति, अंत्ये स्थलानि भवंति, तदाकाराणि बाहुजंघाद्यंगानि भवंति यस्य तपखिनो जानुकूर्परादयोऽवयवाः काकजंघासदृशा दृश्यते इत्यर्थः. कालीपर्वसंकाशांग इति पाठो युज्यते कालीपर्वांगसंकाशः, इति पाठस्त्वापत्वात्, प्राकृतत्वात् संकाशशब्दस्य परनिपातः, अंगशब्दस्य पूर्वनिपातः, पुनः कथंभूतस्तपस्वी ? कृशः, पुनः कथंभूतस्तपस्वी? धमनीसं ततः धमनीभिर्नाडीभिःसंततो व्याप्तो यस्य शरीरं नसाभिर्व्याप्त दृश्यते इत्यर्थः. पुनः कीदृशस्तपस्वी? अशनपानस्य मायन्नत्ति मात्रज्ञो मात्रमन्नपानेन स्वस्योदरपूर्तिमप्रमाणं जानाति, यावतााहारेण स्वकीयोदरपूर्तिः स्यात्तावत्प्रमाणमेवाहारं गृह्णीयात्, ननु यस्तपस्वी रसादिलोल्यादधिकं गृह्णातीत्यर्थः, इति मात्रज्ञः पुनर्यस्तपस्वी अदीनमनाः, अदीनं मनो यस्य सोऽदीनमनाः, तपसः पारणादावाहारस्याप्राप्तावप्यदीनचित्तःसन् चरेत्, संयममार्गे प्रवर्तेत, अलब्धे
5000000000000000000000
॥४३॥
For Private And Personal Use Only