________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sri Kalassagersai Gyanmandie
उत्तरा
सटीकं
॥४२॥
0000000000000000000
कार्या. परीषहाणां नामान्युक्त्वा स्वरूपेण वक्तुकानः संबंधार्थमाह
॥ मूलम् ॥-परीसहाणं पविभत्ती। कासवेणं पवेइया ॥ तं भे उदाहरिस्सामि । आणविं सुणेह मे ॥ १॥ व्याख्या-हे शिष्याः परीषहाणां प्रविभक्तिः प्रकर्षेण विभजनं प्रविभक्तिः, पृथक्पृथग्विभागः प्रविभक्तिः, काश्यपेन काश्यपगोत्रीयेण श्रीमहावीरदेवेन प्रवेदिता विद् ज्ञाने प्रकर्षण | ज्ञाता इत्यर्थः. तां परीषहाणां प्रविभक्तिमहमानुपूर्व्यामनुक्रमेण भे भवतामुदाहरिष्यामि, मे मम 2 कथयिष्यतस्तां परीवहप्रविभक्ति यूयं शृणुत ? ॥१॥ अत्र सर्वेषु परीषहेषु पूर्व क्षुधाया निर्देशः, सर्वेषु
परीषहेषु क्षुधाया दुस्सहत्वात्, यदुक्तं-'खुहासमा वेयणा नत्थि' इति. अथ द्वाभ्यां गाथाभ्यां क्षधाॐ परीषहजयं वदति
॥ मूलम् ॥-दिगंछापरिगए देहे। तवस्ती भिक्खु थामवं ॥ न छिंदे न छिंदावए । न पए न पयावए ॥२॥ कालीपव्वंगसंकासे । किसे धमणिसंतए ॥ मायन्ने असणपाणस्स । अदीणमणसो चरे ॥३॥ व्याख्या-तपस्वो साधुर्दिगंछा क्षुधा, तया परिगते व्याते देहे सति न छिंद्यात्,
0000003086699@000064
॥४२॥
For Private And Personal Use Only