________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४१॥
900000000000000000000
जन् साधुयाविंशतिपरीषहैः स्पृष्टः सन्न विहन्येत. तदा श्रीसुधर्मास्वामी जंबूस्वामिनंप्रति वदतिइमे खलु ते बावीसं परीसहा समजेणं भगवया महावीरेणं कासवेणं पवेइवा, जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिच्चयंतो पुट्ठो नो विहन्निज्जा ॥ हे जंबू ! इमे वक्ष्यमाणा हृदि वर्तमानत्वात् प्रत्यक्षा ये त्वया सोढास्ते द्वाविंशतिपरीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता, यान् परीषहान् श्रुत्वा ज्ञात्वा जित्वाभिभूय भिक्षाचर्यायां परिव्रजन् साधुः परोषहैः स्पृष्टः सन्न विहन्येत, तं जहा-तेषां परीषहाणां नामान्युच्यते, दिगंछापरीसहे १ पिवासाप० २ सीयप० ३ उसणप० ४ दंसमसप० ५ अचेलप० ६ अरतिप० ७ इत्थीप० ८ चरियाप० ९ निसीहियाप० १० सिजाप० ११ अक्कोसप० १२ वहप० १३ जायाणप० १४ अलाभप० १५ रोगप० १६ तणफासप० १७ जल्लप० १८ सकारप० १९ पन्नाप० २० अन्नाणप० २१ दंसणप० २२ नामानि सुगमान्येव. नवरं दिगंछाशब्देन देशीभाषया क्षुधोच्यते, सा क्षुधैव षट्कायमर्दनपातकभयेनाहारपाकादि निवर्तते, न | शुद्धाहारालाभेन वा, परि समंतात् सह्यते इति परीषहो दिगंछापरीषहः, एवमपरेष्वपि व्युत्पत्तिः
3000000000000000000
॥४१॥
For Private And Personal Use Only