________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
४०॥
®0000000000@@@@@@@
काश्यपगोत्रेण खलु निश्चयेन द्वाविंशतिपरीषहाः प्रवेदिताः प्रकर्षेण स्वयं साक्षादज्ञाताः. तीर्थंकराणां स्वयं संबुद्धत्वादात्मागमः, गगधराणामनंतरागमः, तीर्थंकरेभ्यो यादृशमर्थं गणधराः शृण्वंति, | तादृशमनंतरं धारयति, तस्माद्गधराणमनंतरागमो गणधरशिष्याणां हि परंपरागमः, तस्मात् श्रीम| हावीरस्वामिना स्वयमेव ज्ञाताः, परि समंतात् सोते साधुभिरिति परीषहा द्वाविंशतिर्यान् द्वाविंशतिपरोषहान् भिक्षुः साधुः श्रुत्वा गुरुमुखात् करें धृत्वा ज्ञात्वा यथावरूपेणावबुद्धय यान् परीषहान जित्वा पुनः पुनरभ्यासेन परिचितान् कृत्वा, पुनर्यान् परीषहानभिभूय धैर्येण तिरस्कृत्य भिक्षाचर्यायां परिव्रजन् साधुस्तैभविंशतिपरोषहैः स्पृष्ट आश्लिष्टः सन्न विहन्येत संयमरूपशरीरपातेन न म्रियेत इति सुधर्मवामिना प्रोक्ते सति जंबूस्खामी गुरुप्रति पृच्छति-कयरे खलु बावीसं परीसहा स मणेणं भगवया महावीरेणं कासवेणं पवेइया? जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहन्निज्जा ॥ हे स्वामिन् ! कतरे के ते किं नामानः, खलु निश्चयेन, खलु शब्दो वाक्यालंकारे, वा द्वाविंशतिपरीषहा यान् श्रुत्वा ज्ञात्वा जित्वाऽभिभूय भिक्षाचर्यायां परिव्र
Do200809000000000
॥४०॥
For Private And Personal Use Only