________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥५०५॥
॥ मलम् ॥-पहीणपुत्तस्स ह नस्थि वासो। वासहि भिक्खायरियाइकालो ॥ साहाहिं रुक्खो लहए समाहिं । छिन्नाहिं साहाहिं तमेव ठाणुं ॥ २८ ॥ व्याख्या-हे वाशिष्टि! वशिष्टमुनिगोत्रोत्पन्ने ब्राह्मणि प्रिये! प्रहोणपुत्रस्य पुत्राभ्यां त्यक्तस्य ह इति निश्चयेन मम वासो गृहे वसनं नास्ति, ममेति पदमध्याहायं. हे प्रिये ! भिक्षाचर्याया अयं कालोऽयमवसरोऽस्तीति शेषः. उक्तमर्थमर्थांतरन्यासेन दृढयति-वृक्षः शाखाभिरेव समाधि स्वास्थ्यं शोभा वा लभते, छिन्नाभिः शाखाभिस्तमेव वृक्षं जनाः स्थाणुं कीलं वदंति. शाखाहीनस्य वृक्षस्य स्थाणुत्वं स्यात्, तथा ममापि पुत्राभ्यां वियुक्तस्य गृहे वासे स्थितस्य समाधिर्नास्तीत्यर्थः ॥ २८ ॥
॥ मूलम् ॥-पंखाविहणोव जहेव पक्खी । भिच्चविहीणुव रणे नरिंदो ॥ विवन्नसारो वणिउच्च पोए । पहीणपुत्तोमि तहा अहंपि ॥ २९ ॥ व्याख्या-वशब्दो दृष्टांतसमुच्चये, हे प्रिये! इहास्मिन् लोके पक्षाभ्यां विहीनः पक्षी यादृशः स्यात्, पक्षहीनो हि पक्षी आकाशमार्गोल्लंघनायाऽशक्तो येन केनापि हिंस्रेण पराभूयते. पुना रणे संग्रामे भृत्यैः सेवकैविहीनो नरेंद्रो नृपतिरिव रिपुभिः पराभूयते.
SC-C%-0004CRACT
॥५०५॥
For Private And Personal Use Only