________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५०४ ॥
www.kobatirth.org
न्यव यास्यामि, अहं मृत्युगोचरो न भविष्यामि पुनर्य एवं जानाति, अहं न मरिष्यामि, अहं चिरंजीव्यस्मि ॥ २६ ॥
॥ मूलम् ॥ - अजेव धम्मं पडिवजयामो । जहिं पवन्ना न पुणप्भवामो ॥ अणागयं नेव य अस्थि किंची | सद्वाखमं ने विणइन्तु रागं ॥ २७ ॥ व्याख्या - भो तात ! अद्यैव तं धर्मं वयं प्रतिपद्यामहे, आर्यत्वात् किं कृत्वा ? रागं स्नेहं स्वजनादिषु प्रेम, विणइतु इति विनीय स्फोटयित्वा, कीदृशं धर्म ? ने इति नोऽस्माकं श्रद्धाक्षमं श्रद्धया तत्वरुच्या क्षमो योग्यस्तं यतो हि साधुधमें स्नेहः सर्वथा निवार्यः, तत्वरुचिश्च कार्या, तया हीनो हि साधुधर्मो निःफलः, यत्तदोर्नित्याभिसंवंधात्, तं कं धर्मं ? जहिं इति यस्मिन् धर्मे प्रपन्नाः संतो न पुनर्भवामः, पुनः संसारे नोत्पत्स्यामः. यद्भवता पुरोक्तं भोगान् भुंक्त्वा पश्रात्प्रनजिष्यामः, तस्योत्तरं शृणु ? हे तात! अनागतमप्राप्तवस्तुविषयादिसुखं किंचिन्न चैवास्य जीवस्यास्ति, सर्वेषां भावानामनंतशः प्राप्तत्वात्. ॥ २७ ॥ इति स्वपुत्रयोरुपदेशं श्रुत्वा भृगुः प्रतिबुद्धः सन् ब्राह्मणप्रत्याह
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ५०४ ॥