________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥४९७॥
$5455+
वर्तते, यस्य हि कुटुंबं प्रचुरं भवति स केनापि धर्षितुं न शक्यत इत्यर्थः. पुनः प्रकामा भूयांसः प्रचुराः कामगुणा रूपरसगंधस्पर्शादय इंद्रियविषया वर्तन्ते, तस्माकिमर्थं तपस्तपनीयं ? ॥१६॥
॥ मूलम् ॥-धणेण किं धम्मधुराहिगारे । सयणेण वा कामगुणेहिं चेव ॥ समणा भविस्सामु गुणोहधारी । बहिं विहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-अथ पुत्रौ वदतः-भो तात! धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे आवां श्रमणौ भविष्यावः. कीदृशौ श्रमणौ ? गुणीघधारिणौ ज्ञानदर्शनचारित्ररूपगुणसमूहधारिणी. किं कृत्वा ? बहिर्विहारमधिगम्य, द्रव्यतो बहिर्गामाकरनगरादिभ्य एकांतमाश्रित्य, भावतो बहिः क्वचिदप्रतिबद्धत्वमाश्रित्य. तस्मादावयोर्धनेन किं ? अथवा स्वजनेन किं? च पुनः कामगुणैरिन्द्रियसुखैः किं? धनस्वजनविषया हि न परलोकसुखाय स्युरित्यर्थः. यदुक्तं वेदेऽपि-न प्रजया धनधान्येन त्यागेनैकेनामृतत्वमानंशुरित्यादि. ॥ १७ ॥ अथ भृगुस्तयोर्धर्मनिराकरणाय परलोकनिराकरणाय च आत्मनोऽभावमाह
॥ मूलम् ॥-जहा य अग्गो अरणीओ असंतो। खीरे घयं तिल्लमहातिलेसु ॥ एमेव जाया
+
+
CARBONNOCEAM
॥४९७॥
+S
For Private And Personal Use Only