________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४९८॥
सरीरंमि सत्ता । संमुच्छई नासइ नावचिठे ॥ १८ ॥ व्याख्या-हे जायौ ! हे पुत्रौ ! सत्वा जीवा एव- सटीक मेव अमुना दृष्टांतेन शरीरे असंतः पूर्वमविद्यमाना एव संमूर्छते उत्पद्यते. पृथिव्यप्तेजोवाय्वाकाशानां समुदायसंयोगाच्चेतना उत्पद्यते. पुनः स जीवो नश्यति नावतिष्टते, शरीरनाशे तन्नाशः. शरीरे सति पंचभूतमेलापे सति स भवेत्, पंचभूतानां पृथग्भावे तस्यापि नाश एव. एवमिति केन प्रकारेण जीवाः पूर्वमविद्यमाना उत्पद्यते? तदृदृष्टांतमाह-यथा एव, चशब्दोऽत्र एवार्थे, अग्निररणोओ अरणीतोऽग्निमथनकाष्टतः पूर्वमदृश्यमानोऽपि संयोगादुपरितनारणिकाष्टेन, अधो वंशबर्वादिकाष्टसंयोगादग्निरुत्पद्यते, न त्वेकाकिनि अरणिकाष्टे पूर्वमग्निदृष्टः. एवं क्षीरे घृतं, क्षीरमपि पूर्वमुष्णीकृत्य पश्चातन्मध्ये तक्रं स्तोकं प्रक्षिप्य चतुर्यामं स्त्यानीकृत्य पश्चान्मंथानेन विलोड्यते, तदा ततः पूर्वमसदेव घतमत्पद्यते. एवं महातिलेघूत्तमतिलेषु, यंत्रादिमथनसंयोगात्तिलेभ्यस्तैलं पूर्वमप्रत्यक्षमविद्यमानमप्युत्पद्यते. अरणिकाष्टादधः काष्टसंयोगाभावे चैतन्यरूपजीवाभाव इत्यर्थः ॥ १८ ॥ अथैतस्योक्त
Kh४९८॥ स्योत्तरं तावाहतुः
-FOR-4-
85
For Private And Personal Use Only