________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४९५॥
॥ मूलम् ॥–परिवयंते अनियत्तकामे । अहो अ राओ परितप्पमाणो ॥ अण्णप्पमत्ते धनमेसमाणे । पपुत्ति मच्चुं पुरिसो जरं च ॥ १४ ॥ व्याख्या-एतादृशः पुरुषो मृत्युं प्राप्नोति, च पुनर्जरां प्राप्नोति. कीदृशः सन् ? परिव्रजन्, परि समंताद्विषयसुखलाभार्थमितस्ततो भ्रमन्, पुनः कीदृशः? अनिवृत्तकामः, न निवृत्तः कामोऽभिलाषो यस्य सोऽनिवृत्तकामोऽनिवृत्तेच्छ इत्यर्थः. पुनः कीदृशः? अह इति अहनि, राओ इति रात्रौ परितप्यमानः, आर्षत्वादहो अ राओ इति स्थितिः. अहोरात्रेऽप्राप्तवस्तुप्रातिनिमित्तं चिंतामग्नश्चिंतया दग्धः. पुनः कीदृशः? अन्यप्रमत्तः, अन्ये वजनमातापितृपुत्रकलत्रभ्रात्रादयस्तदर्थं प्रमनस्तत्कार्यकरणासक्तोऽन्यप्रमत्तः. पुनः कीदृशः? धनमेषयन्, विविधीपायैर्धनं वांछन्नित्यर्थः. एवमेव मूढः पुमान् म्रियते, स्वार्थं किमपि न करोति. पुनः स्थितो पूर्णायामेकदा मृत्युर्वा जरा वा अवश्यं प्राप्नोत्येवेति भावः ॥ १४ ॥
मूलम् ॥ इमं च मे अत्थि इमं च नत्थि । इमं च मे किच्च इमं अकिच्चं ॥ तमेवमेवं | लालप्पमाणं । हरा हरंतित्ति कहं पमाए ॥१५॥ व्याख्या-पुनः पूर्वोक्तमेव दृढयति, हराः काला
कलनका
॥४९५॥
For Private And Personal Use Only