________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥४९॥
ष्यति ॥२॥ तदा भो तात ! तव तद्वचनं को नाम पुरुषोऽनुमन्येत ? सविवेकः पुमान् कः सम्यक कृत्वा जानीते इत्यर्थः. इत्यनेन वेदाध्ययनं, ब्राह्मणानां भोजनं, पुत्राणां गृहे स्थापनमेतत्त्रयस्योत्तरं दत्वा भोगान् भुक्त्वा इत्यस्योत्तरं ददतः ॥ १२ ॥
॥ मूलम् ॥-खणमत्तसुक्खा बहुकालदुक्खा।पगामदुक्खा अनिकामसुक्खा ॥ संसारमुख्खस्स विपक्वभूया । खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ व्याख्या-हे तात! कामभोगा अनर्थानां | खानिसदृशा वर्तते, अनर्थानामैहिकपारलौकिकदुःखानामुत्पत्तिस्थानसदृशा भवंतीत्यर्थः. तदेवाहकोशाः कामभोगाः? क्षणमात्रसुखाः क्षणमात्रं सेवनकाले एव सुखयंतीति क्षणमात्रसुखाः पुनः कीदृशाः? बहुकालदुःखाः, वहुकालं नरकादिषु दुःखं येभ्यस्ते बहुकालदुःखाः. पुनः कीदृशाः ? प्रकामदुःखाः, प्रकाममत्यंतं दुःखं येभ्यस्ते प्रकामदुःखाः. पुनः कीदृशाः? अनिकामसुखाः, अप्रकृष्टसुखास्तुच्छसुखा इत्यर्थः. पुनः कीदृशाः? संसारस्य भवभ्रमणस्य मोक्षः संसारमोक्षस्तस्य विपक्षभूताः शत्रुभूताः, संसारभ्रमणवृद्धिकारिण इत्यर्थः ॥ १३ ॥
4%AE%E4wOEX
a-
.--
॥४९॥
-.C
For Private And Personal Use Only