________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥४९३॥
मानेन, प्राकृतत्वादधिकशब्दस्य परनिपातः ॥ १०॥ ११ ॥ अथ तौ कुमारावुत्तरं वदतः
सटीक ॥ मूलम् ॥–वेया अहीया न हवंति ताणं । भुत्ता दिया निति तमंतमेणं ॥ जाया य पुत्ता न हवंति ताणं । को नाम ते अणुमनिज एयं ॥ १२॥ व्याख्या-पूर्वोक्तस्य वेदानधोत्य प्रबजितव्यमित्येतस्योत्तरं-भो तात! वेदा अधीतास्त्राणं शरणं न भवंति, वेदामरणाद्वेदपाठिनं न त्रायंते. यदुक्तं वेदविद्भिरेव-शिल्पमध्ययनं नाम । वृत्तं ब्राह्मणलक्षणं ॥ वृत्तस्थं ब्राह्मणं प्राहु-नेंतरान वेदजीवकान् ॥१॥ पुनर्भो तात! द्विजा ब्राह्मणा भुक्ता भोजिताः 'तमंतमे इति' तमस्तमसि नरक| भूमिभागे रौद्रे रौरवकादिके नयंति प्रापयंति. णमिति वाक्यालंकारे, तमसोऽपि यत्तमस्तमस्तमस्तस्मिन् तमस्तमसि. ते हि ब्राह्मणा भोजिताः कुमार्गपशुवधाश्रवसेवनादौप्रवर्तते. अतस्तद्भोजनदानं नरकहेतुकं. च पुनः पुत्रा जाता उत्पन्नास्त्राणं शरणं न भवंति, नरकपातान्न रक्षतीत्यर्थः. उक्तं च वेदानुगैरेव-यदि पुत्राद्भवेत् स्वगों। दानं धमों निरर्थकः ॥धनधान्यव्ययं कृत्वा । रिक्तं कुर्यान्न मंदिरं ॥ १॥ बहुपुत्रा दुलीगोधा-स्ताम्रचूडा तथैव च ॥ तेषां च प्रथमं स्वर्गः । पश्चाल्लोको गमि
18॥ ४९३ ॥
For Private And Personal Use Only