________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥। ४९२ ।।
www.kobatirth.org
कृत्वा ? पसमिक्ख प्रकर्षेण अज्ञानाच्छादितमतिं समीक्ष्य दृष्ट्वेति द्वितीयगाथया संबंधः किं कुर्वतं तं पुरोहितं ? क्रमशोऽनुक्रमेणानुनयंतं, स्वाभिप्रायेण शनैः शनेस्तौ पुत्रप्रति ज्ञापयंतं. पुनः किं कुर्वतं ? धनेन सुतीप्रति निमंत्रयंतं च पुनर्यथाक्रमं कामगुणैर्भोगैर्निमंत्रयंतं, यथाक्रममिति यथावसरं, पूर्वमित्युक्तं, वेदानधीत्य, ब्राह्मणान् भोजयित्वा, भोगान् भुंक्त्वा, इत्याद्यवसरं दर्शयंत मित्यर्थः. इति द्वितीयगाथार्थः अथ पूर्वगाथाया अर्थः - ' सोयग्गीति' पुनः कीदृशं पुरोहितं ? शोकाग्निना संतप्तभावं, शोकवह्निना संतप्तभावं, शोकवह्निना प्रज्वलितचित्तं अत एव परितप्यमानं समंताद्भस्मसाज्जायमानं पुनः कीदृशं पुरोहितं? बहुधा बहुप्रकारेण वेदादिवचोयुक्त्या बहु वारंवारं यथास्यात्तथा लालप्यमानं, मोहवशाद्दीनहीनवचांस्यतिशयेन भाषमाणं. कीदृशेन शोकाग्निना ? आत्मगुणेधनेन, आत्मनः स्वस्य शोकानेरेव सहचारित्वेन तद्गुणकारित्वात् शोकाने रेवोद्दीपकत्वाद् गुणा रागादय आमगुणास्ते एवेंधनमुद्दीपनं यस्य स आत्मगुणेंधनस्तेन पुनः कीदृशेन ? मोहानिलप्रज्वलताधिकेन, मोहानिलादज्ञानपवनादधिकं प्रज्वलनमस्येति मोहानिलाधिकप्रज्वलनस्तेनाज्ञानपवनाधिकजाज्वल्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ४९२