________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४८७ ॥
www.kobatirth.org
मृत्युभयापहं प्रपन्नाः प्राप्ता इति गाथाद्वयार्थः ॥ २ ॥
॥ मूलम् ॥ पुमत्तमागम्म कुमारदोवि । पुरोहिओ तस्स जसा य पत्ती ॥ विसालकित्तो य तसुयारो | रायस्थ देवी कमलावइ य ॥ ३ ॥ व्याख्या- तेषां षण्णामपि पृथक् भेदं दर्शयति 'सूत्रकारः - तेषां षण्णां मध्ये द्वौ जीवौ गोपौ तु पुंस्त्वमागम्य पुरुषवेदत्वं प्राप्य कुमारौ जातो, भृगुब्राह्मणस्य पुत्रौ समुत्पन्नौ अत्र कुमारत्वेन एवमुक्तौ, यो हि अपरिणीतावेव दीक्षां जग्रहतुः. तृतीयो जीवः पुरोहितो भृगुनामा ब्राह्मणश्चासीत् तद्भार्या यशानाम्नी चतुर्थो जीवः तथा विशाला विस्तीर्णा कीर्तिर्यस्य स विशालकीर्तिः, एतादृश इषुकारनामा राजा पंचमो जीवः च पुनरिह राज्ञो भवे एव तस्यैव राज्ञो देवी राज्ञी कमलावती जातेति षष्टो जीवः एते षडपि जीवाः स्वस्वायुःक्षये च्युत्वा केचिदग्रतः केचित्पश्चात्पूर्वसंबंधेन एकत्र नगरे मिलिता इत्यर्थः ॥ ३ ॥
॥ मूलम् ॥ - जाईजरामच्चुभयाभिभूया । बहिविहाराभिनिविट्टचित्ता ॥ संसारचकस्स विमोक्खहा । दट्ठूण ते कामगुणे विरत्ता ॥ ४ ॥ व्याख्या - तौ द्वौ कुमारौ कामगुणेभ्यः शब्दरूपरसगंधस्पर्शेभ्यो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ४८७ ॥