________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४८६॥
|॥ निविन्नसंसारभया जहाय । जिणिंदमग्गं सरणं पवन्ना ॥ २॥ व्याख्या-गाथाद्वयेन संबंधः, केचिजीवाः, येषां केनापि नाम न ज्ञायते. यतो हि पूर्व चतुर्णामपि जीवानां नाम नोक्तं. यौ पुन: चित्रसंभृताभ्यामवशेषावभूती, ताविभ्यव्यवहारिणः सुतत्वेनोत्पन्नौ, तयोः पुनश्चत्वारो मित्रजीवाः. तेषामपि नाम केनापि न ज्ञायते. एवं षडपि जीवाः पूर्वमनिर्दिष्टनामानोऽभूवन्. अहो! पश्यत धमस्य माहात्म्यं ! जीवानां भव्यकर्मपरिपाकत्वं च! केचिज्जीवाः पूर्वस्मिन् भवे देवीभूय देवत्वं प्राप्य सौधर्मदेवलोके नलिनीगुल्मविमाने एकत्र निवासं कृत्वा स्वकर्मशेषेण, स्वस्य कर्मणः पुण्यप्रकृतिलक्षणस्य शेषेण ते षडपि जीवा इषुकारनाम्नि पुरे पुराणे पुरातने नगरे, पुनः ख्याते सर्वत्र प्रसिद्धे, पुनः समृद्धे धनधान्यपूणे, पुनः सुरलोकवत् रम्ये, उदग्रे उत्कटे क्षत्रियादिके कुले प्रसूता उत्पन्नाः. कथंभूतेन स्वकर्मशेषेण? पुरातनेन पूर्वजन्मोपार्जितेन, ते जीवा इषुकारपुरे समुत्पद्य, तत्र संसारभयात् निर्वेद्य निर्वेदं प्राप्य, चतुर्गतिभ्रमणभयादुद्वेगमासाद्य, तदा जहाय इति भोगान् त्यक्त्वा, जिनेंद्रमार्ग जिनेंद्रेणोक्तो मागों जिनेंद्रमार्गस्तं ज्ञानदर्शनचारित्ररूपं मोक्षस्य मार्ग शरणं जन्मजरा
For Private And Personal Use Only