________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥४८८
विरक्तौ जातो. किं कृत्वा ? दट्टण इति दृष्ट्वा साधून विलोक्य, अथवा शब्दादिविषयान् मोक्षप्राप्ति- सटोकं विघ्नभूतान् दृष्ट्वा, किमर्थं? संसारचक्रस्य विमोक्षार्थ, संसारस्य चातुर्गतिकस्य यच्चक्रं योनिकुलभेदात् समूहः, चक्रवभ्रमणं वा, तस्य विमोक्षणार्थं निवारणार्थ. कीदृशौ तौ कुमारौ? जातिजरामृत्युभयाभिभूतो जन्मजरामरणभयेन पीडितो. पुनः कीदृशो तौ कुमारौ ? बहिर्विहाराभिनिविष्टचित्तौ, बहिःसंसाराद्विहारः स्थानं बहिर्विहारो मोक्षस्तस्मिन्नभिनिविष्टं बद्धादरंचित्तं ययोस्तो बहिर्विहाराभिनिविष्टचित्तौ.
॥ मूलम् ॥–पियपुत्तगा दुन्निवि माहणस्स । सकम्मसीलस्स पुरोहियस्स ॥ सरित्तु पोराणिय 3 तत्थ जाइं। तहा सुचिन्नं तवसंजमं च ॥ ५॥ व्याख्या-ब्राह्मणस्य भृगुनाम्नः पुरोहितस्य राज्ञः पूज्यस्य द्वौ प्रियपुत्रको लघुवल्लभपुत्रौ यावास्तां, ताभ्यां द्वाभ्यां पुरोहितस्य वल्लभपुत्राभ्यां तथा तेन | प्रकारेण तपो द्वादशविधं, च पुनः संयम सप्तदशविधं सुचीण सुतरामतिशयेन निदानादिशल्यरहितेनाचरितं संचरितं. किं कृत्वा? तत्र तस्मिन् ग्रामे एव पुरातनी जातिं स्मृत्वा, जातिस्मरणं प्राप्य, *॥४८८ कीहशस्य पुरोहितस्य ? स्वकर्मशीलस्य, स्वकीयं ब्राह्मणस्य यजनादिकं पड्विधं कर्म स्वकर्म, तदेव
For Private And Personal Use Only