________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
+
उत्तरा
कामभोए । अणुत्तरे सो नरए पविट्टो ॥ ३४ ॥व्याख्या-पांचालदेशानां राजा पांचालराजो ब्रह्मद- ॥४८२४
त्तश्चक्रवर्तिरप्यनुत्तरे सकलनरकावासेभ्य उत्कृष्ट अप्रतिष्टाननाम्नि प्रविष्टस्तत्रोत्पन्न इत्यर्थः. किं कृवा? अनुत्तरान् सर्वोत्कृष्टान् कामभोगान् भुंक्त्वा. पुनः किं कृत्वा? तस्य चित्रजीवसाधोर्वचनमुपदेशवाक्यमकृत्वा. निदानकारकस्य नरकगतिरेव. तस्य गुरुकर्मत्वान्न साधोरुपदेशावकाशो जात इत्यर्थः ॥ ३४॥
॥ मूलम् ॥-चित्तोवि कामेहिं विरत्तकामो। उदग्गचारित्ततवो महेसी ॥ अणुत्तरं संजम पा| लइत्ता । अणुत्तरं सिद्धिगई गओत्ति बेमि ॥ ३५॥ व्याख्या-चित्रोऽपि पूर्वभवचित्रजीवसाधुरपि महर्षिर्महामुनिरनुत्तरं सर्वोपरिवर्तिसिद्धिस्थानं गतः. किं कृत्वा? अनुत्तरं जिनाज्ञाविशुद्धं सप्तदशविधं संयम पालयित्वा. कथंभूतः स साधुः? कामेभ्यो विरक्तकामः, भोगेभ्यो विरक्ताभिलाषः. पुनः कीदृशः सः? उदग्रचारित्रतपाः, उग्रं प्रधानं साध्वाचारे सर्वविरतिलक्षणं दविधरूपं चारित्रं, तपो द्वादशविधं यस्य स उदग्रचारित्रतपाः, एतादृशः सन् मोक्ष प्राप्तश्चित्रजीवमनिरिति सुधर्मास्वामी |
+5
॥४८२॥
+5
For Private And Personal Use Only