________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४७९ ।।
www.kobatirth.org
चरणे लग्नः, तदा मया निदानं कृतं तदा त्वयाहं निवारितः, भो भ्रातस्त्वं निदानं माकार्षीः, चेनिदानं कृतं स्यात्तदा मिथ्यादुष्कृतं दातव्यं, त्वया इत्युक्तेऽप्यहं निदानान्न निवृत्त इत्यर्थः जं इति यस्मात्कारणात् अहं जिनोक्तं धर्मं जानन् अपि कामभोगेषु सुतरामतिशयेन मूर्च्छितोऽस्मि, इंद्रियसुखेषु लुब्धोऽस्मि नोचेद् ज्ञानस्य एतदेव फलं, ज्ञानी विषयेभ्यो विरक्तः स्यात्, अहं ज्ञाने सत्यपि विषयेषु रमामि, तन्निदानस्यैव फलमित्यर्थः ॥ २९ ॥
॥ मूलम् ॥ - नागो जहा पंकजलावसन्नो । दट्ट्टुं थलं नाभिसमेइ तीरं ॥ एवं वयं कामगुणे गिद्धा । न भिक्खुणो मग्गमणुवयामो ॥ ३० ॥ व्याख्या - हे साधो ! यथा नागो हस्ती पंकजलावसक्तः, अल्पजले बहुपंके अवसन्नोऽत्यंतं निमग्नस्तीरं दृष्ट्वापि न समेति, तीरस्य तटस्य अभिमुखं गतोऽपि तटं न प्राप्नोति, तीरं तु दूरतः परं तु स्थलमपि दृष्ट्वा न उच्चभूमिं प्राप्नोति एवममुना प्रकारेण अनेन दृष्टांतेन वयमित्यस्मादृशाः कामगुणेषु शब्दरूपरसगंधस्पर्शादिषु गृद्धाः लोभिनो भिक्षोर्मागं साधुमार्गं साध्वाचारं नानुव्रजामो न प्राप्नुमः, तस्मात्किं कुर्मः ? वयं विषयिणो जानं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ४७९ ॥