________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४७८॥
ॐॐॐॐॐ
तथाहमपि जानामि, यत्त्वं मे मम एतद्वाक्यं साधयसि शिक्षयसि, शिक्षारूपेण साधु कथयसि, परं | किं करोमि? इमे प्रत्यक्ष भुज्यमाना भोगाः संगकरा भवंति बंधनकरा भवंति. कीदृशा इमे भोगाः? हे आर्य ये भोगा अस्मादृशैर्गुरुकर्मभिर्दुर्जया दुस्त्याज्याः. ॥ २७॥
॥ मूलम् ॥-हत्थिणापुरंमि चित्त । दठुणं नवरई महड्वियं ॥ कामभोगेसु गिद्धेणं । नियाणम| सुहं कडं ॥ २८ ॥ व्याख्या-हस्तिनागपुरे भो चित्र! मया निदानं कृतं. कीदृशं निदानं? अशुभं | भोगाभिलाषत्वादशुभं. किं कृत्वा? नरपतिं सनत्कुमारचक्रिणं दृष्ट्वा. कीदृशं चक्रिणं? महर्द्धिकं. कीदृशेन मया? कामभोगेषु गृद्धेन, इंद्रियसुखलोलुपेन. ॥ २८ ॥
॥मूलम् ॥-तस्स मे अप्पडिकंतस्स । इमं एयारिसं फलं ॥ जाणमाणोविजं धम्मं । का| मभोगेसु मुच्छिओ ॥ २९ ॥ व्याख्या-तस्य निदानस्य प्राग्भवकृतभोगाभिलाषस्य इमं प्रत्यक्ष भुज्यमानं एतादृशं वक्ष्यमाणं फलं जातं. कथंभूतस्य तस्य निदानस्य? अप्रतिक्रांतस्य अनालोचितस्य. यस्मिन्नवसरे हस्तिनागपुरे आवां अनशनं कृत्वा प्रसुप्तौ, तदा चक्रधरस्य स्त्रीरत्नस्य केशपाशो मम
+ACEARCHANA-
C
A
॥४७०
For Private And Personal Use Only