________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥४७७॥
www.kobatirth.org
ककं जीवरहितं, अत एव तुच्छं असारं शरीरं, किं ? चितीगतं श्मसानाग्निप्राप्तं पावके दग्ध्वा भस्मसात् कृत्वा, पश्चात्तस्य भार्या, च पुनः पुत्रोऽपि च पुनर्ज्ञातयः स्वजनाः, एते सर्वेऽपि अन्यं दातारं अनुसंक्रमंति कोऽर्थः ? यदा कश्चित्पुरुषो म्रियते, तदा तच्छरीरं प्रज्वाल्य तस्य स्त्रीपुलबांधवा अन्यं स्वनिर्वाहकर्तारं धनादिदायकं सेवते, सर्वेऽपि स्वार्थसाधनपरायणा भवंति ॥ २५ ॥
॥ मूलम् ॥ उवणिजइ जीवियमप्पमायं । वन्नं जरा हरइ नरस्स राया ॥ पंचाल या वयणं सुणाहि । माकासि कम्माई महालयाई ॥ २६ ॥ व्याख्या - हे राजन् ! नरस्य प्राणिनो जीवितमायुः प्रमाणमप्रमादं यथा स्यात्तथा कर्मभिर्मृत्यवे उपनीयते. पुनर्जीविते सत्यपि नरस्य वर्ण शरीरसौंदर्यं जरा हरति, वृद्धावस्था रूपं विनाशयति तस्माद्धे पंचालराज ! हे पंचालदेशाधिप ! वचनं मम वाक्यं शृणु ? महालयानि महांति मांसभक्षणादीनि कर्माणि त्वं मा कार्षीः ? ॥ २६ ॥ अथ नृपतिराह
॥ मूलम् ॥ अहंपि जाणामि जहेह साहू । जं मे तुमं साहसि वक्कमेयं ॥ भोगा इमे संगकरा भवति । जे दुज्जया अज अम्हारिसेहिं ॥ २७ ॥ व्याख्या - हे साधो ! इह जगति यथा वर्तते
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1904-0
सटीकं
||४७७॥