________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥४७६ ॥
www.kobatirth.org
यदुक्तं - यथा धेनुसहस्रेषु । वत्सो विंदति मातरं ॥ तथा पुरा कृतं कर्म । कर्तारमनुगच्छति ॥ १ ॥ २३ ॥ ॥ मूलम् ॥ - चिच्चादुपयं च चउप्पयं च । खितं गिहं धणं धन्नं च सव्वं ॥ सकम्मप्पवीओ अवसो पयाइ । परं भवं सुंदर पावगं वा ॥ २४ ॥ व्याख्या - अशरणभावनामुक्त्वा एकत्वभावनां वदति - अयं स्वकर्मात्मद्वितीयो जीवः, स्वस्य कर्म स्वकर्म, स्वकर्म एवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, स्वकर्मसहितोऽयं जीवः सुंदरं देवलोकादिस्थानं वाऽथवा पापकं नरकादिस्थानं, एवंविधं परं भवमन्यलोकं अवशः सन् प्रयाति किं कृत्वा ? द्विपदं भार्यादि च पुनश्चतुःपदं गजाश्वादि, क्षेत्रं ईक्षुक्षेत्रादि, गृहं सप्तभौमिकादि, धनं दीनारादिरजतस्त्रर्णादि, धान्यं तंडुलगोधूमादि, चशब्दास्त्राभरणसाररत्नादि, एतत्सर्वं त्यक्त्वा हित्वा जीवः परभवे व्रजतीत्यर्थः ॥ २४ ॥ अथ मरणादनंतरं पश्वात्तस्य पुत्रकलत्रादयः किं कुर्वतीत्याह
॥ मूलम् ॥ तं इक्कं तुच्छसरीरगं से । चिईगयं दहिय उ पावगेणं । भज्जा य पुतोविय नायओ य । दायारमन्नं मणुसंकमंति ॥ २५ ॥ व्याख्या - से इति तस्य मृतस्य पुरुषस्य तत् ए
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ४७६ ॥