________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४७५॥
अत्र चशब्दः पदपूरणे, एवमनेनैव प्रकारेण, अनेनैव दृष्टांतेन मृत्युमरणं, हु इति निश्चयेनांतकाले नरं मनुष्यं गृहीत्वा स्ववशं नयति. तस्मिन् मनुष्यस्य मरणकाले माता, च पुनः पिता, च पुनर्घाता, एते सर्वे अंशधरा न भवंति, अंशं स्वजीवितव्यभागं धारयंति, मृत्युना नीयमानं नरं रक्षंतीत्यंशधराः, खजीवितव्यदायका न भवंतीत्यर्थः ॥ २२ ॥ पुनर्दुःखादपि न त्रायंते इत्याह
॥ मूलम् ॥-न तस्स दुक्खं विभजंति नाइओ।न मित्तवग्गा न सुया न बंधवा ॥ इक्को सयं पच्चणुहोइ दुक्खं । कत्तारमेवं अणुजाइ कम्मं ॥२३॥ व्याख्या-पुनः हे राजन् ! तस्य मनुष्यस्य अर्थात् दुःखार्तस्य नरस्य दुःखं शारीरिकं मानसिकं च दुःखं ज्ञातयः खजना न विभजंति, दुःखस्य विभागिनो न भवंति. पुनर्मित्रवर्गा मित्रसमूहाः, पुनः सुता अंगजाः, पुनबांधवा भ्रातरोऽपि न दुःखं विभजंति. तदा किं भवतीत्याह-एकोऽयं जीवोऽसहायी खयमेव दुःख प्रत्यनुभवति, एकाकी स्वयमेव दुःखं असातावेदनीयं भुंक्ते. कथं वजनादिवगें सति एको दुःखं भुक्ते? तत्राह-कर्म शुभाशुभरूपं कर्तारमेव अनुयाति अनुगच्छति. यः कर्मणां कर्ता स एव कर्मणां भोक्ता स्यादिति भावः.
%%950w-to-MAIDAEX
॥४७५३
For Private And Personal Use Only