________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥४७॥
155555555
दानस्य चारित्रधर्मस्य हेतोः, आदीयते सविवेकैरित्यादानं चारित्रधर्मस्तस्य हेतोः अभिनिक्खमाहि अभिनिःक्रम? अभि समंतान्निःक्रम? गृहपाशात्त्वं निस्सर? साधुर्भवेत्यर्थः. किं कृत्वा? अशाश्वतान् भोगान् त्यक्त्वा. पुराकृतस्य धर्मस्य फलं चेत्त्वयेदानी भुज्यते, तदेदानीमपि धर्ममंगीकुरु ? यतोऽग्रे शाश्वतसुखभाक् स्या इति भावः ॥ २०॥ धर्मस्य अकरणे दोषमाह
॥ मूलम् ॥-इह जीविए राय असासयंमि । धणियं तु पुन्नाई अकुबमाणो ॥ से सोअइ मच्चु मुहोवणीए । धम्म अकाऊण परम्मि लोए ॥ २१ ॥ व्याख्या-हे राजन् ! इहास्मिन् मनुष्यजीविते मनुष्यायुषि पुण्यान्यकुर्वाणोयो मनुष्यः सुकृतानि न करोति, स दुःकर्मभिर्मृत्युमुखमुपनीतः सन् धर्ममकृत्वा परस्मिन् लोके गतः शोचते पश्चात्तापं कुरुते. मरणसमये एवं जानाति हा मया मनुष्यजन्म प्राप्य धमों न कृतः. इति चिंतां करोति. कथंभूते जीविते? धणियं तु अत्यंतमशाश्वते. ॥ २१ ॥
॥ मूलम् ॥-जहेह सीहो य मियं गिहाय । मच्चू नरं नेइहु अंतकाले॥न तस्स माया व पिया व भाया। कालंमि तम्मिं सहराभवंति ॥ २२ ॥ व्याख्या-यथेह संसारे सिंहो मृगं गृहीत्वा स्ववशं नयति,
ANCIENTALKARACTERS
॥४७१०
For Private And Personal Use Only